Sukta 8.76
उत्तिष्ठन्नोजसा सह पीत्वी शिप्रे अवेपयः । सोममिन्द्र चमू सुतम् ॥
उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वी शिप्रे॑ अवेपयः । सोम॑मिन्द्र च॒मू सु॒तम् ॥
uttíṣṭhann ójasā sahá pītvī́ śípre avépayaḥ | sómam indra camū́ sutám ||
Rising up together with strength, having drunk, thou didst set thy lips a-quiver; O Indra, drink the Soma pressed in the bowl—so the awakened force may surge and act in us.
उ॒त्ऽतिष्ठ॑न् । ओज॑सा । स॒ह । पी॒त्वी । शिप्रे॒ इति॑ । अ॒वे॒प॒यः॒ । सोम॑म् । इ॒न्द्र॒ । च॒मू इति॑ । सु॒तम् ॥उत्तिष्ठन् । ओजसा । सह । पीत्वी । शिप्रे इति । अवेपयः । सोमम् । इन्द्र । चमू इति । सुतम् ॥ut-tiṣṭhan | ojasā | saha | pītvī | śipreiti | avepayaḥ | somam | indra | camū iti | sutam