Sukta 8.76
तुभ्येदिन्द्र मरुत्वते सुताः सोमासो अद्रिवः । हृदा हूयन्त उक्थिनः ॥
तुभ्येदि॑न्द्र म॒रुत्व॑ते सु॒ताः सोमा॑सो अद्रिवः । हृ॒दा हू॑यन्त उ॒क्थिन॑: ॥
túbhyéd índra marútvate sutā́ḥ sómāso adrivaḥ | hṛdā́ hūyanta ukthínaḥ ||
For thee alone, O Indra with the Maruts, are these Soma draughts pressed, O wielder of the stone; from the heart the chanters call thee with the hymn—so the inner delight may answer the inner call.
तुभ्य॑ । इत् । इ॒न्द्र॒ । म॒रुत्व॑ते । सु॒ताः । सोमा॑सः । अ॒द्रि॒ऽवः॒ । हृ॒दा । हू॒य॒न्ते॒ । उ॒क्थिनः॑ ॥तुभ्य । इत् । इन्द्र । मरुत्वते । सुताः । सोमासः । अद्रिवः । हृदा । हूयन्ते । उक्थिनः ॥tubhya | it | indra | marutvate | sutāḥ | somāsaḥ | adri-vaḥ | hṛdā | hūyante | ukthinaḥ