Sukta 8.76
अयं ह येन वा इदं स्वर्मरुत्वता जितम् । इन्द्रेण सोमपीतये ॥
अ॒यं ह॒ येन॒ वा इ॒दं स्व॑र्म॒रुत्व॑ता जि॒तम् । इन्द्रे॑ण॒ सोम॑पीतये ॥
ayáṃ ha yéna vā idáṃ svàr marútvatā jitám | índreṇa sómapītaye ||
This is he by whom, with the Maruts, the luminous world (svar) was won—Indra who comes for the drinking of Soma, that the joy of the Light may be established in us.
अ॒यम् । ह॒ । येन॑ । वै । इ॒दम् । स्वः॑ । म॒रुत्व॑ता । जि॒तम् । इन्द्रे॑ण । सोम॑ऽपीतये ॥अयम् । ह । येन । वै । इदम् । स्वः । मरुत्वता । जितम् । इन्द्रेण । सोमपीतये ॥ayam | ha | yena | vai | idam | svaḥ | marutvatā | jitam | indreṇa | soma-pītaye