Sukta 8.76
अयमिन्द्रो मरुत्सखा वि वृत्रस्याभिनच्छिरः । वज्रेण शतपर्वणा ॥
अ॒यमिन्द्रो॑ म॒रुत्स॑खा॒ वि वृ॒त्रस्या॑भिन॒च्छिर॑: । वज्रे॑ण श॒तप॑र्वणा ॥
ayám índro marútsakhā́ ví vṛtrásyābhinác chíraḥ | vájreṇa śatáparvaṇā ||
This Indra, friend of the Maruts, clave apart the head of Vṛtra with the thunderbolt of a hundred joints—breaking the knot of obstruction so the streams of force and light may run free.
अ॒यम् । इन्द्रः॑ । म॒रुत्ऽस॑खा । वि । वृ॒त्रस्य॑ । अ॒भि॒न॒त् । शिरः॑ । वज्रे॑ण । श॒तऽप॑र्वणा ॥अयम् । इन्द्रः । मरुत्सखा । वि । वृत्रस्य । अभिनत् । शिरः । वज्रेण । शतपर्वणा ॥ayam | indraḥ | marut-sakhā | vi | vṛtrasya | abhinat | śiraḥ | vajreṇa | śata-parvaṇā