Sukta 8.76
अनु त्वा रोदसी उभे क्रक्षमाणमकृपेताम् । इन्द्र यद्दस्युहाभवः ॥
अनु॑ त्वा॒ रोद॑सी उ॒भे क्रक्ष॑माणमकृपेताम् । इन्द्र॒ यद्द॑स्यु॒हाभ॑वः ॥
ánu tvā ródasī ubhé krákṣamāṇam akṛpetām | índra yád dasyu-hā́ abhavaḥ ||
Heaven and Earth, the two vast worlds, followed you with their cry and did not abandon you, O Indra, when you became the slayer of the Dasyu-forces (the powers of obscuring resistance).
अनु॑ । त्वा॒ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । क्रक्ष॑माणम् । अ॒कृ॒पे॒ता॒म् । इन्द्र॑ । यत् । द॒स्यु॒ऽहा । अभ॑वः ॥अनु । त्वा । रोदसी इति । उभे इति । क्रक्षमाणम् । अकृपेताम् । इन्द्र । यत् । दस्युहा । अभवः ॥anu | tvā | rodasī iti | ubhe | iti | krakṣamāṇam | akṛpetām | indra | yat | dasyu-hā | abhavaḥ