Sukta 8.75
त्वं ह यद्यविष्ठ्य सहसः सूनवाहुत । ऋतावा यज्ञियो भुवः ॥
त्वं ह॒ यद्य॑विष्ठ्य॒ सह॑सः सूनवाहुत । ऋ॒तावा॑ य॒ज्ञियो॒ भुव॑: ॥
tváṃ ha yád yaviṣṭhya sáhasaḥ sūno āhuta | ṛtā́vā yajñíyo bhúvaḥ ||
You—when you are invoked, O youngest, son of Force—become the keeper of the Truth-order; you become worthy of sacrifice, the power that makes our offering straight and luminous.
त्वम् । ह॒ । यत् । य॒वि॒ष्ठ्य॒ । सह॑सः । सू॒नो॒ इति॑ । आ॒ऽहु॒त॒ । ऋ॒तऽवा॑ । य॒ज्ञियः॑ । भुवः॑ ॥त्वम् । ह । यत् । यविष्ठ्य । सहसः । सूनो इति । आहुत । ऋतवा । यज्ञियः । भुवः ॥tvam | ha | yat | yaviṣṭhya | sahasaḥ | sūno iti | āhuta | ṛta-vā | yajñiyaḥ | bhuvaḥ