Sukta 8.75
उत नो देव देवाँ अच्छा वोचो विदुष्टरः । श्रद्विश्वा वार्या कृधि ॥
उ॒त नो॑ देव दे॒वाँ अच्छा॑ वोचो वि॒दुष्ट॑रः । श्रद्विश्वा॒ वार्या॑ कृधि ॥
utá no deva devā́ṃ ácchā voco vidúṣṭaraḥ | śrád viśvā vā́ryā kṛdhi ||
And for us, O divine Power, speak to the gods—call them near, you who know best; establish in us the faith that makes all true treasures attainable.
उ॒त । नः॒ । दे॒व॒ । दे॒वान् । अच्छ॑ । वो॒चः॒ । वि॒दुःऽत॑रः । श्रत् । विश्वा॑ । वार्या॑ । कृ॒धि॒ ॥उत । नः । देव । देवान् । अच्छ । वोचः । विदुःतरः । श्रत् । विश्वा । वार्या । कृधि ॥uta | naḥ | deva | devān | accha | vocaḥ | viduḥ-taraḥ | śrat | viśvā | vāryā | kṛdhi