Sukta 8.75
युक्ष्वा हि देवहूतमाँ अश्वाँ अग्ने रथीरिव । नि होता पूर्व्यः सदः ॥
यु॒क्ष्वा हि दे॑व॒हूत॑माँ॒ अश्वाँ॑ अग्ने र॒थीरि॑व । नि होता॑ पू॒र्व्यः स॑दः ॥
yukṣvā́ hí deva-hūtámāṃ aśvā́ṃ agne rathī́riva | ní hotā́ pū́rvyaḥ sadaḥ ||
Yoke, for you are the best called by the gods, your horses, O Agni, like a skilled charioteer; sit down as the ancient Hotṛ within the seat of our offering-consciousness.
यु॒क्ष्व । हि । दे॒व॒ऽहूत॑मान् । अश्वा॑न् । अ॒ग्ने॒ । र॒थीःऽइ॑व । नि । होता॑ । पू॒र्व्यः॑ । स॒दः॒ ॥युक्ष्व । हि । देवहूतमान् । अश्वान् । अग्ने । रथीःइव । नि । होता । पूर्व्यः । सदः ॥yukṣva | hi | deva-hūtamān | aśvān | agne | rathīḥ-iva | ni | hotā | pūrvyaḥ | sadaḥ