Sukta 8.74
सबाधो यं जना इमेऽग्निं हव्येभिरीळते । जुह्वानासो यतस्रुचः ॥
स॒बाधो॒ यं जना॑ इ॒मे॒३॒॑ऽग्निं ह॒व्येभि॒रीळ॑ते । जुह्वा॑नासो य॒तस्रु॑चः ॥
sabā́dho yáṃ jánā imé ’gníṃ havyébhir ī́ḷate | juhvā́nāso yatásrucaḥ ||
Without division, these peoples adore that Agni with their offerings—pouring out with the ladle held true: disciplined in the act of giving.
स॒ऽबाधः॑ । यम् । जनाः॑ । इ॒मे । अ॒ग्निम् । ह॒व्येभिः॑ । ईळ॑ते । जुह्वा॑नासः । य॒तऽस्रु॑चः ॥सबाधः । यम् । जनाः । इमे । अग्निम् । हव्येभिः । ईळते । जुह्वानासः । यतस्रुचः ॥sa-bādhaḥ | yam | janāḥ | ime | agnim | havyebhiḥ | īḷate | juhvānāsaḥ | yata-srucaḥ