Sukta 8.74
आगन्म वृत्रहन्तमं ज्येष्ठमग्निमानवम् । यस्य श्रुतर्वा बृहन्नार्क्षो अनीक एधते ॥
आग॑न्म वृत्र॒हन्त॑मं॒ ज्येष्ठ॑म॒ग्निमान॑वम् । यस्य॑ श्रु॒तर्वा॑ बृ॒हन्ना॒र्क्षो अनी॑क॒ एध॑ते ॥
ā́ganma vṛtrahántamaṃ jyéṣṭham agním ā́navaṃ | yásya śrutárvā bṛhánn ārkṣó anī́ke édhaté ||
We have come to the most Vṛtra-slaying, the eldest Agni, the ancient-new one; whose vast, far-hearing force grows in the forefront of manifestation.
आ । अ॒ग॒न्म॒ । वृ॒त्र॒हन्ऽत॑मम् । ज्येष्ठ॑म् । अ॒ग्निम् । आन॑वम् । यस्य॑ । श्रु॒तर्वा॑ । बृ॒हन् । आ॒र्क्षः । अनी॑के । एध॑ते ॥आ । अगन्म । वृत्रहन्तमम् । ज्येष्ठम् । अग्निम् । आनवम् । यस्य । श्रुतर्वा । बृहन् । आर्क्षः । अनीके । एधते ॥ā | aganma | vṛtrahan-tamam | jyeṣṭham | agnim | ānavam | yasya | śrutarvā | bṛhan | ārkṣaḥ | anīke | edhate