Sukta 8.74
पन्यांसं जातवेदसं यो देवतात्युद्यता । हव्यान्यैरयद्दिवि ॥
पन्यां॑सं जा॒तवे॑दसं॒ यो दे॒वता॒त्युद्य॑ता । ह॒व्यान्यैर॑यद्दि॒वि ॥
pányāṃsaṃ jātávedasaṃ yó devátāty údyatā | havyā́ny áirayad diví ||
Adorable Jātavedas—he who, uplifted toward the godhead, sets the offerings in motion in the luminous heights.
पन्या॑सम् । जा॒तऽवे॑दसम् । यः । दे॒वऽता॑ति । उत्ऽय॑ता । ह॒व्यानि॑ । ऐर॑यत् । दि॒वि ॥पन्यासम् । जातवेदसम् । यः । देवताति । उत्यता । हव्यानि । ऐरयत् । दिवि ॥panyāsam | jāta-vedasam | yaḥ | deva-tāti | ut-yatā | havyāni | airayat | divi