Sukta 8.74
यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम् । प्रशंसन्ति प्रशस्तिभिः ॥
यं जना॑सो ह॒विष्म॑न्तो मि॒त्रं न स॒र्पिरा॑सुतिम् । प्र॒शंस॑न्ति॒ प्रश॑स्तिभिः ॥
yáṃ jánāso havíṣmanto mitráṃ na sarpírāsutim | praśáṃsanti práśastibhiḥ ||
Him whom the offerers among men acclaim with their affirmations—like a friend—him whose libation is clarified richness: Agni is praised by praises.
यम् । जना॑सः । ह॒विष्म॑न्तः । मि॒त्रम् । न । स॒र्पिःऽआ॑सुतिम् । प्र॒ऽशंस॑न्ति । प्रश॑स्तिऽभिः ॥यम् । जनासः । हविष्मन्तः । मित्रम् । न । सर्पिःआसुतिम् । प्रशंसन्ति । प्रशस्तिभिः ॥yam | janāsaḥ | haviṣmantaḥ | mitram | na | sarpiḥ-āsutim | pra-śaṃsanti | praśasti-bhiḥ