Sukta 8.74
विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् । अग्निं वो दुर्यं वचः स्तुषे शूषस्य मन्मभिः ॥
वि॒शोवि॑शो वो॒ अति॑थिं वाज॒यन्त॑: पुरुप्रि॒यम् । अ॒ग्निं वो॒ दुर्यं॒ वच॑: स्तु॒षे शू॒षस्य॒ मन्म॑भिः ॥
viśóviśo vo átithiṃ vājayántaḥ purupriyám | agníṃ vo dúryaṃ vácaḥ stuṣé śūṣásya mánmabhiḥ ||
O you of every clan, fostering the plenitudes of force, you set forward your Guest—Agni, beloved of many. Him, your indwelling flame, I affirm with the word, with thought-formations of ardent power.
वि॒शःऽवि॑सः । वः॒ । अति॑थिम् । वा॒ज॒ऽयन्तः॑ । पु॒रु॒ऽप्रि॒यम् । अ॒ग्निम् । वः॒ । दुर्य॑म् । वचः॑ । स्तु॒षे । शू॒षस्य॑ । मन्म॑ऽभिः ॥विशःविसः । वः । अतिथिम् । वाजयन्तः । पुरुप्रियम् । अग्निम् । वः । दुर्यम् । वचः । स्तुषे । शूषस्य । मन्मभिः ॥viśaḥ-visaḥ | vaḥ | atithim | vāja-yantaḥ | puru-priyam | agnim | vaḥ | duyarm | vacaḥ | stuṣe | śūṣasya | manma-bhiḥ