Sukta 8.74
मां चत्वार आशवः शविष्ठस्य द्रवित्नवः । सुरथासो अभि प्रयो वक्षन्वयो न तुग्र्यम् ॥
मां च॒त्वार॑ आ॒शव॒: शवि॑ष्ठस्य द्रवि॒त्नव॑: । सु॒रथा॑सो अ॒भि प्रयो॒ वक्ष॒न्वयो॒ न तुग्र्य॑म् ॥
mā́ṃ catvā́ra āśávaḥ śáviṣṭhasya dravitnávaḥ | suráthāso abhí práyo vakṣán váyo ná tugryám ||
Four swift powers of the Most Mighty, rich in the impetus of movement, well-yoked like noble chariots, bear me toward the nourishing plenitude—like strong steeds carrying one who seeks the far goal.
माम् । च॒त्वारः॑ । आ॒शवः॑ । शवि॑ष्ठस्य । द्र॒वि॒त्नवः॑ । सु॒ऽरथा॑सः । अ॒भि । प्रयः॑ । वक्ष॑न् । वयः॑ । न । तुग्र्य॑म् ॥माम् । चत्वारः । आशवः । शविष्ठस्य । द्रवित्नवः । सुरथासः । अभि । प्रयः । वक्षन् । वयः । न । तुग्र्यम् ॥mām | catvāraḥ | āśavaḥ | śaviṣṭhasya | dravitnavaḥ | su-rathāsaḥ | abhi | prayaḥ | vakṣan | vayaḥ | na | tugryam