Sukta 8.74
अहं हुवान आर्क्षे श्रुतर्वणि मदच्युति । शर्धांसीव स्तुकाविनां मृक्षा शीर्षा चतुर्णाम् ॥
अ॒हं हु॑वा॒न आ॒र्क्षे श्रु॒तर्व॑णि मद॒च्युति॑ । शर्धां॑सीव स्तुका॒विनां॑ मृ॒क्षा शी॒र्षा च॑तु॒र्णाम् ॥
aháṃ huvānā́ ārkṣe śrutárvaṇi madá-cyuti | śárdhāṃsīva stukāvinā́ṃ mṛkṣā́ śī́rṣā caturṇā́m ||
I, calling in the Eagle’s (sun-bird’s) wide flight, in the heard-moving surge that releases delight, break the clustered resistances—like crushing the heads of the fourfold forces that block the way.
अ॒हम् । हु॒वा॒नः । आ॒र्क्षे । श्रु॒तर्व॑णि । म॒द॒ऽच्युति॑ । शर्धां॑सिऽइव । स्तु॒का॒ऽविना॑म् । मृ॒क्षा । शी॒र्षा । च॒तु॒र्णाम् ॥अहम् । हुवानः । आर्क्षे । श्रुतर्वणि । मदच्युति । शर्धांसिइव । स्तुकाविनाम् । मृक्षा । शीर्षा । चतुर्णाम् ॥aham | huvānaḥ | ārkṣe | śrutarvaṇi | mada-cyuti | śardhāṃsi-iva | stukāvinām | mṛkṣā | śīrṣā | caturṇām