Sukta 8.74
सत्यमित्त्वा महेनदि परुष्ण्यव देदिशम् । नेमापो अश्वदातरः शविष्ठादस्ति मर्त्यः ॥
स॒त्यमित्त्वा॑ महेनदि॒ परु॒ष्ण्यव॑ देदिशम् । नेमा॑पो अश्व॒दात॑र॒: शवि॑ष्ठादस्ति॒ मर्त्य॑: ॥
satyám íttvā mahenadi párūṣṇy áva dediśam | némāpo aśva-dā́taraḥ śáviṣṭhād asti mártyaḥ ||
Truly, I have made you blaze forth, O great River Paruṣṇī; and among mortal men there is none—no giver of horses—stronger than you, O Most Mighty power.
स॒त्यम् । इत् । त्वा॒ । म॒हे॒ऽन॒दि॒ । परु॑ष्णि । अव॑ । दे॒दि॒श॒म् । न । ई॒म् । आ॒पः॒ । अ॒श्व॒ऽदात॑रः । शवि॑ष्ठात् । अ॒स्ति॒ । मर्त्यः॑ ॥सत्यम् । इत् । त्वा । महेनदि । परुष्णि । अव । देदिशम् । न । ईम् । आपः । अश्वदातरः । शविष्ठात् । अस्ति । मर्त्यः ॥satyam | it | tvā | mahe--nadi | paruṣṇi | ava | dediśam | na | īm | āpaḥ | aśva-dātaraḥ | śaviṣṭhāt | asti | martyaḥ