Sukta 8.74
यं त्वा जनास ईळते सबाधो वाजसातये । स बोधि वृत्रतूर्ये ॥
यं त्वा॒ जना॑स॒ ईळ॑ते स॒बाधो॒ वाज॑सातये । स बो॑धि वृत्र॒तूर्ये॑ ॥
yáṃ tvā́ jánāsa ī́ḷate sabā́dho vā́jasātaye | sá bódhi vṛtra-tū́rye ||
You whom the peoples adore, irresistible in the winning of plenitude of force—awaken in us; become conscious and active in the battle that breaks the cover of obstruction (Vṛtra).
यम् । त्वा॒ । जना॑सः । ईळ॑ते । स॒ऽबाधः॑ । वाज॑ऽसातये । सः । बो॒धि॒ । वृ॒त्र॒ऽतूर्ये॑ ॥यम् । त्वा । जनासः । ईळते । सबाधः । वाजसातये । सः । बोधि । वृत्रतूर्ये ॥yam | tvā | janāsaḥ | īḷate | sa-bādhaḥ | vāja-sātaye | saḥ | bodhi | vṛtra-tūrye