Sukta 8.73
अश्विना सु विचाकशद्वृक्षं परशुमाँ इव । अन्ति षद्भूतु वामवः ॥
अ॒श्विना॒ सु वि॒चाक॑शद्वृ॒क्षं प॑रशु॒माँ इ॑व । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥
aśvinā sú vicā́kaśad vṛkṣáṃ paraśumā́m iva | ánti ṣádbhūtu vāmávaḥ ||
O Aśvins, may it shine out clearly—like a tree (made manifest) by an axe-bearer; may your help be near and truly present.
अ॒श्विना॑ । सु । वि॒ऽचाक॑शत् । वृ॒क्षम् । प॒र॒शु॒मान्ऽइ॑व । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥अश्विना । सु । विचाकशत् । वृक्षम् । परशुमान्इव । अन्ति । सत् । भूतु । वाम् । अवः ॥aśvinā | su | vi-cākaśat | vṛkṣam | paraśumān-iva | anti | sat | bhūtu | vām | avaḥ