Sukta 8.73
आ नो गव्येभिरश्व्यैः सहस्रैरुप गच्छतम् । अन्ति षद्भूतु वामवः ॥
आ नो॒ गव्ये॑भि॒रश्व्यै॑: स॒हस्रै॒रुप॑ गच्छतम् । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥
ā́ no gávye bhir áśvyaiḥ sahásrair úpa gacchatam | ánti ṣádbhūtu vāmávaḥ ||
Come to us near with your thousandfold riches of luminous herds and swift powers; may your help be near and truly present.
आ । नः॒ । गव्ये॑भिः । अश्व्यैः॑ । स॒हस्रैः॑ । उप॑ । ग॒च्छ॒त॒म् । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥आ । नः । गव्येभिः । अश्व्यैः । सहस्रैः । उप । गच्छतम् । अन्ति । सत् । भूतु । वाम् । अवः ॥ā | naḥ | gavyebhiḥ | aśvyaiḥ | sahasraiḥ | upa | gacchatam | anti | sat | bhūtu | vām | avaḥ