Sukta 8.73
यो वां रजांस्यश्विना रथो वियाति रोदसी । अन्ति षद्भूतु वामवः ॥
यो वां॒ रजां॑स्यश्विना॒ रथो॑ वि॒याति॒ रोद॑सी । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥
yó vāṃ rajā́ṃsy aśvinā rátho viyā́ti ródasī | ánti ṣádbhūtu vāmávaḥ ||
Your chariot, O Aśvins, that moves through the wide spaces and ranges over the two worlds—may your help be near and truly present.
यः । वा॒म् । रजां॑सि । अ॒श्वि॒ना॒ । रथः॑ । वि॒ऽयाति॑ । रोद॑सी॒ इति॑ । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥यः । वाम् । रजांसि । अश्विना । रथः । वियाति । रोदसी इति । अन्ति । सत् । भूतु । वाम् । अवः ॥yaḥ | vām | rajāṃsi | aśvinā | rathaḥ | vi-yāti | rodasī iti | anti | sat | bhūtu | vām | avaḥ