Sukta 8.73
समानं वां सजात्यं समानो बन्धुरश्विना । अन्ति षद्भूतु वामवः ॥
स॒मा॒नं वां॑ सजा॒त्यं॑ समा॒नो बन्धु॑रश्विना । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥
samānáṃ vāṃ sajā́tyaṃ samā́nó bándhur aśvinā | ánti ṣádbhūtu vāmávaḥ ||
One is your kindred nature, one your common bond, O Aśvins; may your help be near and truly present.
स॒मा॒नम् । वा॒म् । स॒ऽजा॒त्य॑म् । स॒मा॒नः । बन्धुः॑ । अ॒श्वि॒ना॒ । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥समानम् । वाम् । सजात्यम् । समानः । बन्धुः । अश्विना । अन्ति । सत् । भूतु । वाम् । अवः ॥samānam | vām | sa-jātyam | samānaḥ | bandhuḥ | aśvinā | anti | sat | bhūtu | vām | avaḥ