Sukta 8.72
परि त्रिधातुरध्वरं जूर्णिरेति नवीयसी । मध्वा होतारो अञ्जते ॥
परि॑ त्रि॒धातु॑रध्व॒रं जू॒र्णिरे॑ति॒ नवी॑यसी । मध्वा॒ होता॑रो अञ्जते ॥
pári tri-dhā́tur adhvaráṃ jū́rṇir eti návīyasī | mádhvā hótāro añjate ||
Around the sacrifice founded in the threefold order, the fresh-driving energy moves; with honeyed delight the invoking powers anoint themselves for the work.
परि॑ । त्रि॒ऽधातुः॑ । अ॒ध्व॒रम् । जू॒र्णिः । ए॒ति॒ । नवी॑यसी । मध्वा॑ । होता॑रः । अ॒ञ्ज॒ते॒ ॥परि । त्रिधातुः । अध्वरम् । जूर्णिः । एति । नवीयसी । मध्वा । होतारः । अञ्जते ॥pari | tri-dhātuḥ | adhvaram | jūrṇiḥ | eti | navīyasī | madhvā | hotāraḥ | añjate