Sukta 8.72
आ दशभिर्विवस्वत इन्द्रः कोशमचुच्यवीत् । खेदया त्रिवृता दिवः ॥
आ द॒शभि॑र्वि॒वस्व॑त॒ इन्द्र॒: कोश॑मचुच्यवीत् । खेद॑या त्रि॒वृता॑ दि॒वः ॥
ā́ daśábhir vivásvata índraḥ kóśam acucyavīt | khédāyā tri-vṛ́tā diváḥ ||
With ten luminous impulsions from Vivasvat, Indra dislodges the hidden treasury; by the pressure that breaks fatigue, he opens the threefold enclosure of heaven.
आ । द॒शऽभिः॑ । वि॒वस्व॑तः । इन्द्रः॑ । कोश॑म् । अ॒चु॒च्य॒वी॒त् । खेद॑या । त्रि॒ऽवृता॑ । दि॒वः ॥आ । दशभिः । विवस्वतः । इन्द्रः । कोशम् । अचुच्यवीत् । खेदया । त्रिवृता । दिवः ॥ā | daśa-bhiḥ | vivasvataḥ | indraḥ | kośam | acucyavīt | khedayā | tri-vṛtā | divaḥ