Sukta 8.72
उतो न्वस्य यन्महदश्वावद्योजनं बृहद् । दामा रथस्य ददृशे ॥
उ॒तो न्व॑स्य॒ यन्म॒हदश्वा॑व॒द्योज॑नं बृ॒हद् । दा॒मा रथ॑स्य॒ ददृ॑शे ॥
utó nv asya yán mahád aśvā́vad yójanaṃ bṛhád | dā́mā ráthasya dadṛ́śe ||
And further, great indeed is his horse-borne course, vast in its joining: the binding band of his chariot is seen—his ordered harnessing of the movement.
उ॒तो इति॑ । नु । अ॒स्य॒ । यत् । म॒हत् । अश्व॑ऽवत् । योज॑नम् । बृ॒हत् । दा॒मा । रथ॑स्य । ददृ॑शे ॥उतो इति । नु । अस्य । यत् । महत् । अश्ववत् । योजनम् । बृहत् । दामा । रथस्य । ददृशे ॥uto iti | nu | asya | yat | mahat | aśva-vat | yojanam | bṛhat | dāmā | rathasya | dadṛśe