Sukta 8.72
अन्तरिच्छन्ति तं जने रुद्रं परो मनीषया । गृभ्णन्ति जिह्वया ससम् ॥
अ॒न्तरि॑च्छन्ति॒ तं जने॑ रु॒द्रं प॒रो म॑नी॒षया॑ । गृ॒भ्णन्ति॑ जि॒ह्वया॑ स॒सम् ॥
antár icchanti táṃ jáne rudráṃ paró manīṣáyā | gṛbhṇánti jihváyā sasám ||
Men seek within for that Rudra, beyond by the discerning thought; they seize him with the tongue, the mighty one—by the power of the inspired word.
अ॒न्तः । इ॒च्छ॒न्ति॒ । तम् । जने॑ । रु॒द्रम् । प॒रः । म॒नी॒षया॑ । गृ॒भ्णन्ति॑ । जि॒ह्वया॑ । स॒सम् ॥अन्तः । इच्छन्ति । तम् । जने । रुद्रम् । परः । मनीषया । गृभ्णन्ति । जिह्वया । ससम् ॥antaḥ | icchanti | tam | jane | rudram | paraḥ | manīṣayā | gṛbhṇanti | jihvayā | sasam