Sukta 8.72
अधुक्षत्पिप्युषीमिषमूर्जं सप्तपदीमरिः । सूर्यस्य सप्त रश्मिभिः ॥
अधु॑क्षत्पि॒प्युषी॒मिष॒मूर्जं॑ स॒प्तप॑दीम॒रिः । सूर्य॑स्य स॒प्त र॒श्मिभि॑: ॥
ádhukṣat pipyúṣīm íṣam ū́rjaṃ saptá-padīm aríḥ | sū́ryasya saptá raśmíbhíḥ ||
He has milked out the swelling nourishment and force, the seven-stepped plenitude; with the seven rays of the Sun it is accomplished.
अधु॑क्षत् । पि॒प्युषी॑म् । इष॑म् । ऊर्ज॑म् । स॒प्तऽप॑दीम् । अ॒रिः । सूर्य॑स्य । स॒प्त । र॒श्मिऽभिः॑ ॥अधुक्षत् । पिप्युषीम् । इषम् । ऊर्जम् । सप्तपदीम् । अरिः । सूर्यस्य । सप्त । रश्मिभिः ॥adhukṣat | pipyuṣīm | iṣam | ūrjam | sapta-padīm | ariḥ | sūryasya | sapta | raśmi-bhiḥ