Sukta 8.72
गाव उपावतावतं मही यज्ञस्य रप्सुदा । उभा कर्णा हिरण्यया ॥
गाव॒ उपा॑वताव॒तं म॒ही य॒ज्ञस्य॑ र॒प्सुदा॑ । उ॒भा कर्णा॑ हिर॒ण्यया॑ ॥
gā́va úpāvatāvatáṃ mahī́ yajñásya rapsu-dā́ | ubhā́ kárṇā hiraṇyáyā ||
The Cows—rays of illumination—come near to the depth; the Vast One, giver of delight to the sacrifice, has both ears of gold: she hears and receives the true call.
गावः॑ । उप॑ । अ॒व॒त॒ । अ॒व॒तम् । म॒ही इति॑ । य॒ज्ञस्य॑ । र॒प्सुदा॑ । उ॒भा । कर्णा॑ । हि॒र॒ण्यया॑ ॥गावः । उप । अवत । अवतम् । मही इति । यज्ञस्य । रप्सुदा । उभा । कर्णा । हिरण्यया ॥gāvaḥ | upa | avata | avatam | mahī iti | yajñasya | rapsudā | ubhā | karṇā | hiraṇyayā