Sukta 8.72
अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु । अवतस्य विसर्जने ॥
अ॒भ्यार॒मिदद्र॑यो॒ निषि॑क्तं॒ पुष्क॑रे॒ मधु॑ । अ॒व॒तस्य॑ वि॒सर्ज॑ने ॥
abhy-āráṃ íd ádrayo ní-siktaṃ púṣkare mádhu | avatásya vi-sárjane ||
Close in, the pressing-stones pour the honeyed delight into the lotus-cup, at the releasing of the depths.
अ॒भि॒ऽआर॑म् । इत् । अद्र॑यः । निऽसि॑क्तम् । पुष्क॑रे । मधु॑ । अ॒व॒तस्य॑ । वि॒ऽसर्ज॑ने ॥अभिआरम् । इत् । अद्रयः । निसिक्तम् । पुष्करे । मधु । अवतस्य । विसर्जने ॥abhi-āram | it | adrayaḥ | ni-siktam | puṣkare | madhu | avatasya | vi-sarjane