Sukta 8.70
तं वो महो महाय्यमिन्द्रं दानाय सक्षणिम् । यो गाधेषु य आरणेषु हव्यो वाजेष्वस्ति हव्यः ॥
तं वो॑ म॒हो म॒हाय्य॒मिन्द्रं॑ दा॒नाय॑ स॒क्षणि॑म् । यो गा॒धेषु॒ य आर॑णेषु॒ हव्यो॒ वाजे॒ष्वस्ति॒ हव्य॑: ॥
táṃ vo mahó mahā́yyam índraṃ dānā́ya sakṣáṇim | yó gādhéṣu yá ā́raṇeṣu hávyo vā́jeṣv ásti hávyaḥ ||
Him, Indra, great and worthy of greatness, we call for the giving—able to accomplish. He who is to be invoked in the fordable depths and in the far reaches, he is the invocation in the plenitudes of force.
तम् । वः॒ । म॒हः । म॒हाय्य॑म् । इन्द्र॑म् । दा॒नाय॑ । स॒क्षणि॑म् । यः । गा॒धेषु॑ । यः । आ॒ऽअर॑णेषु । हव्यः॑ । वाजे॑षु । अस्ति॑ । हव्यः॑ ॥तम् । वः । महः । महाय्यम् । इन्द्रम् । दानाय । सक्षणिम् । यः । गाधेषु । यः । आअरणेषु । हव्यः । वाजेषु । अस्ति । हव्यः ॥tam | vaḥ | mahaḥ | mahāyyam | indram | dānāya | sakṣaṇim | yaḥ | gādheṣu | yaḥ | āaraṇeṣu | havyaḥ | vājeṣu | asti | havyaḥ