Sukta 8.70
न सीमदेव आपदिषं दीर्घायो मर्त्यः । एतग्वा चिद्य एतशा युयोजते हरी इन्द्रो युयोजते ॥
न सी॒मदे॑व आप॒दिषं॑ दीर्घायो॒ मर्त्य॑: । एत॑ग्वा चि॒द्य एत॑शा यु॒योज॑ते॒ हरी॒ इन्द्रो॑ यु॒योज॑ते ॥
ná sīmádeva āpádiṣaṃ dīrghāyó mártyaḥ | étagvā cid yá étaśā yuyójate hárī índro yuyójate ||
No mortal who is without the godward orientation attains the impulsion that leads to long life. But even he who is swift-going can yoke the two tawny powers of action; Indra indeed yokes them for the journey.
न । सी॒म् । अदे॑वः । आ॒प॒त् । इष॑म् । दी॒र्घा॒यो॒ इति॑ दीर्घऽआयो । मर्त्यः॑ । एत॑ऽग्वा । चि॒त् । यः । एत॑शा । यु॒योज॑ते । हरी॒ इति॑ । इन्द्रः॑ । यु॒योज॑ते ॥न । सीम् । अदेवः । आपत् । इषम् । दीर्घायो इति दीर्घआयो । मर्त्यः । एतग्वा । चित् । यः । एतशा । युयोजते । हरी इति । इन्द्रः । युयोजते ॥na | sīm | adevaḥ | āpat | iṣam | dīrghāyo itidīrgha-āyo | martyaḥ | eta-gvā | cit | yaḥ | etaśā | yuyojate | harī iti | indraḥ | yuyojate