Sukta 8.70
आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा । अस्माँ अव मघवन्गोमति व्रजे वज्रिञ्चित्राभिरूतिभिः ॥
आ प॑प्राथ महि॒ना वृष्ण्या॑ वृष॒न्विश्वा॑ शविष्ठ॒ शव॑सा । अ॒स्माँ अ॑व मघव॒न्गोम॑ति व्र॒जे वज्रि॑ञ्चि॒त्राभि॑रू॒तिभि॑: ॥
ā́ paprātha mahinā́ vṛ́ṣṇyā vṛṣán víśvā śaviṣṭha śávasā | asmā́n ava maghavan gómati vrajé vajrin citrā́bhir ūtíbhiḥ ||
You have spread wide by your greatness, O Bull of force, strongest in might. Protect us, O bounteous one, in the cow-filled enclosure—O thunderbolt-bearer—by your many-colored helps.
आ । प॒प्रा॒थ॒ । म॒हि॒ना । वृष्ण्या॑ । वृ॒ष॒न् । विश्वा॑ । श॒वि॒ष्ठ॒ । शव॑सा । अ॒स्मान् । अ॒व॒ । म॒घ॒ऽव॒न् । गोऽम॑ति । व्र॒जे । वज्रि॑न् । चि॒त्राभिः॑ । ऊ॒तिऽभिः॑ ॥आ । पप्राथ । महिना । वृष्ण्या । वृषन् । विश्वा । शविष्ठ । शवसा । अस्मान् । अव । मघवन् । गोमति । व्रजे । वज्रिन् । चित्राभिः । ऊतिभिः ॥ā | paprātha | mahinā | vṛṣṇyā | vṛṣan | viśvā | śaviṣṭha | śavasā | asmān | ava | magha-van | go--mati | vraje | vajrin | citrābhiḥ | ūti-bhiḥ