Sukta 8.70
यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः । न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी ॥
यद्द्याव॑ इन्द्र ते श॒तं श॒तं भूमी॑रु॒त स्युः । न त्वा॑ वज्रिन्त्स॒हस्रं॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी ॥
yád dyā́va indra te śatáṁ śatáṁ bhū́mīr utá syuḥ | ná tvā vajrin sahásraṁ sū́ryā ánu ná jātám aṣṭá ródasī ||
Even if there were a hundred heavens for you, O Indra, and a hundred earths as well—still, O bearer of the thunderbolt, not even a thousand suns could match you, nor the eightfold worlds in their birth and span.
यत् । द्यावः॑ । इ॒न्द्र॒ । ते॒ । श॒तम् । श॒तम् । भूमीः॑ । उ॒त । स्युरिति॒ स्युः । न । त्वा॒ । व॒ज्रि॒न् । स॒हस्र॑म् । सूर्याः॑ । अनु॑ । न । जा॒तम् । अ॒ष्ट॒ । रोद॑सी॒ इति॑ ॥यत् । द्यावः । इन्द्र । ते । शतम् । शतम् । भूमीः । उत । स्युरिति स्युः । न । त्वा । वज्रिन् । सहस्रम् । सूर्याः । अनु । न । जातम् । अष्ट । रोदसी इति ॥yat | dyāvaḥ | indra | te | śatam | śatam | bhūmīḥ | uta | syuritisyuḥ | na | tvā | vajr in | sahasram | sūryāḥ | anu | na | jātam | aṣṭa | rodasī iti