Sukta 8.70
अषाळ्हमुग्रं पृतनासु सासहिं यस्मिन्महीरुरुज्रयः । सं धेनवो जायमाने अनोनवुर्द्यावः क्षामो अनोनवुः ॥
अषा॑ळ्हमु॒ग्रं पृत॑नासु सास॒हिं यस्मि॑न्म॒हीरु॑रु॒ज्रय॑: । सं धे॒नवो॒ जाय॑माने अनोनवु॒र्द्याव॒: क्षामो॑ अनोनवुः ॥
aṣā́ḷham ugráṁ pṛ́tanāsu sāsahíṁ yásmin mahī́r uru-jráyaḥ | sáṁ dhenávo jā́yamāne anonavuḥ dyā́vaḥ kṣā́maḥ anonavuḥ ||
The unconquered, the fierce, the victor in battles—when he is born into our consciousness, vast energies surge together. The fostering powers flow in union; heaven and earth themselves resound and press forward in that awakening.
अषा॑ळ्हम् । उ॒ग्रम् । पृत॑नासु । स॒स॒हिम् । यस्मि॑न् । म॒हीः । उ॒रु॒ऽज्रयः॑ । सम् । धे॒नवः॑ । जाय॑माने । अ॒नो॒न॒वुः॒ । द्यावः॑ । क्षामः॑ । अ॒नो॒न॒वुः॒ ॥अषाळ्हम् । उग्रम् । पृतनासु । ससहिम् । यस्मिन् । महीः । उरुज्रयः । सम् । धेनवः । जायमाने । अनोनवुः । द्यावः । क्षामः । अनोनवुः ॥aṣāḷham | ugram | pṛtanāsu | sasahim | yasmin | mahīḥ | uru-jrayaḥ | sam | dhenavaḥ | jāyamāne | anonavuḥ | dyāvaḥ | kṣāmaḥ | anonavuḥ