Sukta 8.70
नकिष्टं कर्मणा नशद्यश्चकार सदावृधम् । इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्ण्वोजसम् ॥
नकि॒ष्टं कर्म॑णा नश॒द्यश्च॒कार॑ स॒दावृ॑धम् । इन्द्रं॒ न य॒ज्ञैर्वि॒श्वगू॑र्त॒मृभ्व॑स॒मधृ॑ष्टं धृ॒ष्ण्वो॑जसम् ॥
nákīṣ ṭáṁ kármaṇā naśad yáś cakā́ra sadā́-vṛdham | índraṁ ná yajñáir viśvá-gūrtam ṛ́bhvasam ádhṛṣṭaṁ dhṛṣṇv-ójasam ||
None reaches him by mere works—him who made (all) ever-growing. Indra is not won by sacrifice as a bargain: he is the all-acclaimed, the strong craftsman of power, unassailable, with a daring energy.
नकिः॑ । तम् । कर्म॑णा । न॒श॒त् । यः । च॒कार॑ । स॒दाऽवृ॑धम् । इन्द्र॑म् । न । य॒ज्ञैः । वि॒श्वऽगू॑र्तम् । ऋभ्व॑सम् । अधृ॑ष्टम् । धृ॒ष्णुऽओ॑जसम् ॥नकिः । तम् । कर्मणा । नशत् । यः । चकार । सदावृधम् । इन्द्रम् । न । यज्ञैः । विश्वगूर्तम् । ऋभ्वसम् । अधृष्टम् । धृष्णुओजसम् ॥nakiḥ | tam | karmaṇā | naśat | yaḥ | cakāra | sadāvṛdham | indram | na | yajñaiḥ | viśva-gūrtam | ṛbhvasam | adhṛṣṭam | dhṛṣṇu-ojasam