Sukta 8.70
इन्द्रं तं शुम्भ पुरुहन्मन्नवसे यस्य द्विता विधर्तरि । हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥
इन्द्रं॒ तं शु॑म्भ पुरुहन्म॒न्नव॑से॒ यस्य॑ द्वि॒ता वि॑ध॒र्तरि॑ । हस्ता॑य॒ वज्र॒: प्रति॑ धायि दर्श॒तो म॒हो दि॒वे न सूर्य॑: ॥
índraṁ táṁ śumbha puru-hanmann ávase yásya dvitā́ vi-dhártarī | hástāya vájraḥ práti dhāyi darśató mahó divé ná sū́ryaḥ ||
Adorn that Indra, O slayer of many foes, for our protection—he in whose two upholding hands the thunderbolt is set. He is visible, great, like the Sun in heaven: a manifest power of luminous might.
इन्द्र॑म् । तम् । शु॒म्भ॒ । पु॒रु॒ऽह॒न्म॒न् । अव॑से । यस्य॑ । द्वि॒ता । वि॒ऽध॒र्तरि॑ । हस्ता॑य । वज्रः॑ । प्रति॑ । धा॒यि॒ । द॒र्श॒तः । म॒हः । दि॒वे । न । सूर्यः॑ ॥इन्द्रम् । तम् । शुम्भ । पुरुहन्मन् । अवसे । यस्य । द्विता । विधर्तरि । हस्ताय । वज्रः । प्रति । धायि । दर्शतः । महः । दिवे । न । सूर्यः ॥indram | tam | śumbha | puru-hanman | avase | yasya | dvitā | vi-dhartari | hastāya | vajraḥ | prati | dhāyi | darśataḥ | mahaḥ | dive | na | sūryaḥ