Sukta 8.70
सखायः क्रतुमिच्छत कथा राधाम शरस्य । उपस्तुतिं भोजः सूरिर्यो अह्रयः ॥
सखा॑य॒: क्रतु॑मिच्छत क॒था रा॑धाम श॒रस्य॑ । उप॑स्तुतिं भो॒जः सू॒रिर्यो अह्र॑यः ॥
sákhāyaḥ krátum icchata kathā́ rādhāma śarásya | upástutiṃ bhojáḥ sūrír yó áhrayaḥ ||
O comrades, seek the will and the shaping intention: how shall we attain the fulfillment of Śara? (Bring) the near-praise—Bhoja, the illumined patron, who is not slack.
सखा॑यः । क्रतु॑म् । इ॒च्छ॒त॒ । क॒था । रा॒धा॒म॒ । श॒रस्य॑ । उप॑ऽस्तुतिम् । भो॒जः । सू॒रिः । यः । अह्र॑यः ॥सखायः । क्रतुम् । इच्छत । कथा । राधाम । शरस्य । उपस्तुतिम् । भोजः । सूरिः । यः । अह्रयः ॥sakhāyaḥ | kratum | icchata | kathā | rādhāma | śarasya | upa-stutim | bhojaḥ | sūriḥ | yaḥ | ahrayaḥ