Sukta 8.70
भूरिभिः समह ऋषिभिर्बर्हिष्मद्भिः स्तविष्यसे । यदित्थमेकमेकमिच्छर वत्सान्पराददः ॥
भूरि॑भिः समह॒ ऋषि॑भिर्ब॒र्हिष्म॑द्भिः स्तविष्यसे । यदि॒त्थमेक॑मेक॒मिच्छर॑ व॒त्सान्प॑रा॒दद॑: ॥
bhū́ribhiḥ samahá ṛ́ṣibhir barhíṣmadbhiḥ staviṣyase | yád itthám ékam ekam ícchara vatsā́n parā́dadaḥ ||
With many and assembled seers, with those who bear the sacred seat, you will be praised. When thus you sought them one by one, O Śara, you carried away the calves.
भूरि॑ऽभिः । स॒म॒ह॒ । ऋषि॑ऽभिः । ब॒र्हिष्म॑त्ऽभिः । स्त॒वि॒ष्य॒से॒ । यत् । इ॒त्थम् । एक॑म् । एक॑म् । इत् । शर॑ । व॒त्सान् । प॒रा॒ऽददः॑ ॥भूरिभिः । समह । ऋषिभिः । बर्हिष्मत्भिः । स्तविष्यसे । यत् । इत्थम् । एकम् । एकम् । इत् । शर । वत्सान् । पराददः ॥bhūri-bhiḥ | samaha | ṛṣi-bhiḥ | barhiṣmat-bhiḥ | staviṣyase | yat | ittham | ekam | ekam | it | śara | vatsān | parādadaḥ