Sukta 8.7
वपन्ति मरुतो मिहं प्र वेपयन्ति पर्वतान् । यद्यामं यान्ति वायुभिः ॥
वप॑न्ति म॒रुतो॒ मिहं॒ प्र वे॑पयन्ति॒ पर्व॑तान् । यद्यामं॒ यान्ति॑ वा॒युभि॑: ॥
vápanti marúto míhaṃ prá vepayanti párvatān | yádyāmaṃ yā́nti vāyú-bhiḥ ||
The Maruts cast abroad the mist of the inner obscurity; they set the fixed formations trembling, when they go on their appointed march with the breaths (vāyus) of the life-force.
वप॑न्ति । म॒रुतः॑ । मिह॑म् । प्र । वे॒प॒य॒न्ति॒ । पर्व॑तान् । यत् । याम॑म् । यान्ति॑ । वा॒युऽभिः॑ ॥वपन्ति । मरुतः । मिहम् । प्र । वेपयन्ति । पर्वतान् । यत् । यामम् । यान्ति । वायुभिः ॥vapanti | marutaḥ | miham | pra | vepayanti | parvatān | yat | yāmam | yānti | vāyu-bhiḥ