Sukta 8.7
उदीरयन्त वायुभिर्वाश्रासः पृश्निमातरः । धुक्षन्त पिप्युषीमिषम् ॥
उदी॑रयन्त वा॒युभि॑र्वा॒श्रास॒: पृश्नि॑मातरः । धु॒क्षन्त॑ पि॒प्युषी॒मिष॑म् ॥
udī́rayanta vāyúbhir vāśrā́saḥ pṛ́śni-mātaraḥ | dhúkṣanta pipyúṣīm íṣam ||
They raise it up with the winds—those roaring ones, sons of Prishni; they milk forth the abounding nourishment: the life-breaths become givers of plenary force for the soul’s advance.
उत् । ई॒र॒य॒न्त॒ । वा॒युऽभिः॑ । वा॒श्रासः॑ । पृश्नि॑ऽमातरः । धु॒क्षन्त॑ । पि॒प्युषी॑म् । इष॑म् ॥उत् । ईरयन्त । वायुभिः । वाश्रासः । पृश्निमातरः । धुक्षन्त । पिप्युषीम् । इषम् ॥ut | īrayanta | vāyu-bhiḥ | vāśrāsaḥ | pṛśni-mātaraḥ | dhukṣanta | pipyuṣīm | iṣam