Sukta 8.7
यदङ्ग तविषीयवो यामं शुभ्रा अचिध्वम् । नि पर्वता अहासत ॥
यद॒ङ्ग त॑विषीयवो॒ यामं॑ शुभ्रा॒ अचि॑ध्वम् । नि पर्व॑ता अहासत ॥
yád aṅgá taviṣī-yavo yā́maṃ śubhrā́ acídhvam | ní párvatā ahāsata ||
When, O radiant ones, strong in your impelling force, you set your course, the mountains bowed down—fixed heights yielding before the advancing powers of the Truth’s movement.
यत् । अ॒ङ्ग । त॒वि॒षी॒ऽय॒वः॒ । याम॑म् । शुभ्राः॑ । अचि॑ध्वम् । नि । पर्व॑ताः । अ॒हा॒स॒त॒ ॥यत् । अङ्ग । तविषीयवः । यामम् । शुभ्राः । अचिध्वम् । नि । पर्वताः । अहासत ॥yat | aṅga | taviṣī-yavaḥ | yāmam | śubhrāḥ | acidhvam | ni | parvatāḥ | ahāsata