Sukta 8.7
यदेषां पृषती रथे प्रष्टिर्वहति रोहितः । यान्ति शुभ्रा रिणन्नपः ॥
यदे॑षां॒ पृष॑ती॒ रथे॒ प्रष्टि॒र्वह॑ति॒ रोहि॑तः । यान्ति॑ शु॒भ्रा रि॒णन्न॒पः ॥
yád eṣā́ṃ pṛ́ṣatī rathe práṣṭir váhati róhitaḥ | yā́nti śubhrā́ riṇánn apáḥ ||
When their dappled one is on the chariot and the red one draws the pole, the bright powers go, setting the waters vibrating into movement.
यत् । ए॒षा॒म् । पृष॑तीः । रथे॑ । प्रष्टिः॑ । वह॑ति । रोहि॑तः । यान्ति॑ । शु॒भ्राः । रि॒णन् । अ॒पः ॥यत् । एषाम् । पृषतीः । रथे । प्रष्टिः । वहति । रोहितः । यान्ति । शुभ्राः । रिणन् । अपः ॥yat | eṣām | pṛṣatīḥ | rathe | praṣṭiḥ | vahati | rohitaḥ | yānti | śubhrāḥ | riṇan | apaḥ