Sukta 8.7
आ नो मखस्य दावनेऽश्वैर्हिरण्यपाणिभिः । देवास उप गन्तन ॥
आ नो॑ म॒खस्य॑ दा॒वनेऽश्वै॒र्हिर॑ण्यपाणिभिः । देवा॑स॒ उप॑ गन्तन ॥
ā nó makhásya dāváne 'śváiḥ híraṇyapāṇibhiḥ | devā́sa úpa gantana ||
Come to us for the giving of the delight of the offering, with your steeds, with hands of gold-light; O gods, draw near.
आ । नः॒ । म॒खस्य॑ । दा॒वने॑ । अश्वैः॑ । हिर॑ण्यपाणिऽभिः । देवा॑सः । उप॑ । ग॒न्त॒न॒ ॥आ । नः । मखस्य । दावने । अश्वैः । हिरण्यपाणिभिः । देवासः । उप । गन्तन ॥ā | naḥ | makhasya | dāvane | aśvaiḥ | hiraṇyapāṇi-bhiḥ | devāsaḥ | upa | gantana