Sukta 8.7
समु त्ये महतीरपः सं क्षोणी समु सूर्यम् । सं वज्रं पर्वशो दधुः ॥
समु॒ त्ये म॑ह॒तीर॒पः सं क्षो॒णी समु॒ सूर्य॑म् । सं वज्रं॑ पर्व॒शो द॑धुः ॥
sám u tyé mahatī́r apáḥ sám kṣóṇī́ sám u sū́ryam | sám vájraṃ parváśo dadhúḥ ||
Together they set the great Waters in harmony; together the Earth; together the Sun; together they placed the thunderbolt joint by joint—assembling the powers for a single act of Truth.
सम् । ऊँ॒ इति॑ । त्ये । म॒ह॒तीः । अ॒पः । सम् । क्षो॒णी । सम् । ऊँ॒ इति॑ । सूर्य॑म् । सम् । वज्र॑म् । प॒र्व॒ऽशः । द॒धुः॒ ॥सम् । ऊँ इति । त्ये । महतीः । अपः । सम् । क्षोणी । सम् । ऊँ इति । सूर्यम् । सम् । वज्रम् । पर्वशः । दधुः ॥sam | oṃ iti | tye | mahatīḥ | apaḥ | sam | kṣoṇī | sam | oṃ iti | sūryam | sam | vajram | parva-śaḥ | dadhuḥ