Sukta 8.7
क्व नूनं सुदानवो मदथा वृक्तबर्हिषः । ब्रह्मा को वः सपर्यति ॥
क्व॑ नू॒नं सु॑दानवो॒ मद॑था वृक्तबर्हिषः । ब्र॒ह्मा को व॑: सपर्यति ॥
kvá nūnáṃ sudānavo mádathā vṛktabarhiṣaḥ | brahmā́ kó vaḥ saparyati ||
Where now, O good-givers, do you take your delight, you who have strewn the sacred seat? What priest of the soul, what knower of the word, is serving you with right approach?
क्व॑ । नू॒नम् । सु॒ऽदा॒न॒वः॒ । मद॑थ । वृ॒क्त॒ऽब॒र्हि॒षः॒ । ब्र॒ह्मा । कः । वः॒ । स॒प॒र्यति॒ ॥क्व । नूनम् । सुदानवः । मदथ । वृक्तबर्हिषः । ब्रह्मा । कः । वः । सपर्यति ॥kva | nūnam | su-dānavaḥ | madatha | vṛkta-barhiṣaḥ | brahmā | kaḥ | vaḥ | saparyati