Sukta 8.7
प्र यद्वस्त्रिष्टुभमिषं मरुतो विप्रो अक्षरत् । वि पर्वतेषु राजथ ॥
प्र यद्व॑स्त्रि॒ष्टुभ॒मिषं॒ मरु॑तो॒ विप्रो॒ अक्ष॑रत् । वि पर्व॑तेषु राजथ ॥
prá yád vaḥ tri-stúbham íṣaṃ marúto vípro ákṣarat | ví párvateṣu rājatha ||
When the seer pours forth for you, O Maruts, the Trishtubh nourishment of inspired force, you shine out and rule through the ranges—powers of the Vast moving in ordered might.
प्र । यत् । वः॒ । त्रि॒ऽस्तुभ॑म् । इष॑म् । मरु॑तः । विप्रः॑ । अक्ष॑रत् । वि । पर्व॑तेषु । रा॒ज॒थ॒ ॥प्र । यत् । वः । त्रिस्तुभम् । इषम् । मरुतः । विप्रः । अक्षरत् । वि । पर्वतेषु । राजथ ॥pra | yat | vaḥ | tri-stubham | iṣam | marutaḥ | vipraḥ | akṣarat | vi | parvateṣu | rājatha