Sukta 8.68
विश्वानरस्य वस्पतिमनानतस्य शवसः । एवैश्च चर्षणीनामूती हुवे रथानाम् ॥
वि॒श्वान॑रस्य व॒स्पति॒मना॑नतस्य॒ शव॑सः । एवै॑श्च चर्षणी॒नामू॒ती हु॑वे॒ रथा॑नाम् ॥
viśvā́narasya vaspatím anā́natasya śávasāḥ | eváiś ca carṣaṇīnā́m ūtī́ huve ráthānām ||
I call for the protecting help of the Lord of the wide Energy (Viśvānara), the unconquered Power of force; with his swift impulsions he becomes the succour of all the human-kindreds and the master of the chariots of our movement.
वि॒श्वान॑रस्य । वः॒ । पति॑म् । अना॑नतस्य । शव॑सः । एवैः॑ । च॒ । च॒र्ष॒णी॒नाम् । ऊ॒ती । हु॒वे॒ । रथा॑नाम् ॥विश्वानरस्य । वः । पतिम् । अनानतस्य । शवसः । एवैः । च । चर्षणीनाम् । ऊती । हुवे । रथानाम् ॥viśvānarasya | vaḥ | patim | anānatasya | śavasaḥ | evaiḥ | ca | carṣaṇīnām | ūtī | huve | rathānām