Sukta 8.68
यस्य ते महिना महः परि ज्मायन्तमीयतुः । हस्ता वज्रं हिरण्ययम् ॥
यस्य॑ ते महि॒ना म॒हः परि॑ ज्मा॒यन्त॑मी॒यतु॑: । हस्ता॒ वज्रं॑ हिर॒ण्यय॑म् ॥
yásya te mahinā́ máhaḥ pári jmāyántam īyátuḥ | hástā vájraṁ hiraṇyáyam ||
By whose greatness your mighty glory moves around, advancing—(you) whose hands go forth bearing the golden thunderbolt: the luminous instrument of victorious force.
यस्य॑ । ते॒ । म॒हि॒ना । म॒हः । परि॑ । ज्मा॒यन्त॑म् । ई॒यतुः॑ । हस्ता॑ । वज्र॑म् । हि॒र॒ण्यय॑म् ॥यस्य । ते । महिना । महः । परि । ज्मायन्तम् । ईयतुः । हस्ता । वज्रम् । हिरण्ययम् ॥yasya | te | mahinā | mahaḥ | pari | jmāyantam | īyatuḥ | hastā | vajram | hiraṇyayam