Sukta 8.68
ऋज्राविन्द्रोत आ ददे हरी ऋक्षस्य सूनवि । आश्वमेधस्य रोहिता ॥
ऋ॒ज्रावि॑न्द्रो॒त आ द॑दे॒ हरी॒ ऋक्ष॑स्य सू॒नवि॑ । आ॒श्व॒मे॒धस्य॒ रोहि॑ता ॥
ṛjrā́ vindróta ā́ dade hárī íti ṛ́kṣasya sūnávi | āśvá-medhasya róhitā ||
Indra has granted the two tawny steeds—powers of luminous movement—to the son of Ṛkṣa, to the Ashvamedha: the red-gold forces that carry the offering forward within.
ऋ॒ज्रौ । इ॒न्द्रो॒ते । आ । द॒दे॒ । हरी॒ इति॑ । ऋक्ष॑स्य । सू॒नवि॑ । आ॒श्व॒ऽमे॒धस्य॑ । रोहि॑ता ॥ऋज्रौ । इन्द्रोते । आ । ददे । हरी इति । ऋक्षस्य । सूनवि । आश्वमेधस्य । रोहिता ॥ṛjrau | indrote | ā | dade | harī iti | ṛkṣasya | sūnavi | āśva-medhasya | rohitā