Sukta 8.68
उप मा षड्द्वाद्वा नरः सोमस्य हर्ष्या । तिष्ठन्ति स्वादुरातयः ॥
उप॑ मा॒ षड्द्वाद्वा॒ नर॒: सोम॑स्य॒ हर्ष्या॑ । तिष्ठ॑न्ति स्वादुरा॒तय॑: ॥
úpa mā ṣáḍ-dvādvā nárāḥ sómasya hárṣyā | tíṣṭhanti svā́du-rātayaḥ ||
Draw near to me: the twelve heroic powers, rejoicing in the ecstasy of Soma, stand firm as bearers of a sweet largess—delight that nourishes the inner being.
उप॑ । मा॒ । षट् । द्वाऽद्वा॑ । नरः॑ । सोम॑स्य । हर्ष्या॑ । तिष्ठ॑न्ति । स्वा॒दु॒ऽरा॒तयः॑ ॥उप । मा । षट् । द्वाद्वा । नरः । सोमस्य । हर्ष्या । तिष्ठन्ति । स्वादुरातयः ॥upa | mā | ṣaṭ | dvādvā | naraḥ | somasya | harṣyā | tiṣṭhanti | svādu-rātayaḥ