Sukta 8.68
यस्य ते स्वादु सख्यं स्वाद्वी प्रणीतिरद्रिवः । यज्ञो वितन्तसाय्यः ॥
यस्य॑ ते स्वा॒दु स॒ख्यं स्वा॒द्वी प्रणी॑तिरद्रिवः । य॒ज्ञो वि॑तन्त॒साय्य॑: ॥
yásya te svā́du sakhyáṃ svā́dvī pra-nī́tir adri-vaḥ | yajñó vitantasā́yyaḥ ||
He for whom your friendship is sweet, and sweet your leading, O holder of the stone—his sacrifice is stretched out toward the goal of victory.
यस्य॑ । ते॒ । स्वा॒दु । स॒ख्यम् । स्वा॒द्वी । प्रऽनी॑तिः । अ॒द्रि॒ऽवः॒ । य॒ज्ञः । वि॒त॒न्त॒साय्यः॑ ॥यस्य । ते । स्वादु । सख्यम् । स्वाद्वी । प्रनीतिः । अद्रिवः । यज्ञः । वितन्तसाय्यः ॥yasya | te | svādu | sakhyam | svādvī | pra-nītiḥ | adri-vaḥ | yajñaḥ | vitantasāyyaḥ